|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.40. अध्यायः 040
Mahabharata - Adi Parva - Chapter Topics
जरत्कारुनामव्युत्पत्तिकथनम्॥ 1 ॥ शौनकस्य सौतिं प्रति आस्तीकोत्पत्तिप्रश्नः॥ 2 ॥ प्रसङ्गेन परीक्षिन्मृगयाकथनम्॥ 3 ॥ परीक्षिता शमीकस्कन्धे मृतसर्पनिधानम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
शौनक उवाच। 1-40-0x(185)(1782)
जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन।
इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः॥ 1-40-1(1783)
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि।
जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि॥ 1-40-2(1784)
सौतिरुवाच। 1-40-3x(186)
जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्।
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैःशनैः॥ 1-40-3(1785)
क्षपयामास तीव्रेण तपसेत्यत उच्यते।
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा॥ 1-40-4(1786)
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा।
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्॥ 1-40-5(1787)
शौनक उवाच। 1-40-6x(187)
उक्तं नाम यथा पूर्वं सर्वं तच्छ्रुतवानहम्।
यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम्।
तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः॥ 1-40-6(1788)
सौतिरुवाच। 1-40-7x(188)
संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः।
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति॥ 1-40-7(1789)
अथ कालस्य महतः स मुनिः संशितव्रतः।
तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत॥ 1-40-8(1790)
स तूर्ध्वरेतास्तपसि प्रसक्तः
स्वाध्यायवान्वीतभयः कृतात्मा।
चचार सर्वां पृथिवीं महात्मा
न चापि दारान्मनसाध्यकाङ्क्षत्॥ 1-40-9(1791)
ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु।
परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः॥ 1-40-10(1792)
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि।
बभूव मृगयाशीलः पुरास्य प्रपितामहः॥ 1-40-11(1793)
`तथा विख्यातवाँल्लोके परीक्षिदभिमन्युजः।'
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा।
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः॥ 1-40-12(1794)
स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा।
पृष्ठतो धनुरादाय ससार गहने वने॥ 1-40-13(1795)
यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि।
अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः॥ 1-40-14(1796)
न हि तेन मृगो विद्धो जीवन्गच्छति वै वने।
पूर्वरूपं तु तत्तूर्णं तस्यासीत्स्वर्गतिं प्रति॥ 1-40-15(1797)
परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः।
दूरं चापहृतस्तेन मृगेण स महीपतिः॥ 1-40-16(1798)
परिश्रान्तः पिपासार्त आससाद मुनिं वने।
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्॥ 1-40-17(1799)
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः।
तमभिद्रुत्य वेगेन स राजा संशितव्रतम्॥ 1-40-18(1800)
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः।
भोभो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः॥ 1-40-19(1801)
मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि।
स मुनिस्तं तु नोवाच किंचिन्मौनव्रते स्थितः॥ 1-40-20(1802)
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत्।
समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत॥ 1-40-21(1803)
न स किंचिदुवाचैनं शुभं वा यदि वाऽशुभम्।
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्।
दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः॥ 1-40-22(1804)
न हि तं राजशार्दूलं क्षमाशीलो महामुनिः।
स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत्॥ 1-40-23(1805)
न हि तं राजशार्दूलस्तथा धर्मपरायणम्।
जानाति भरतश्रेष्ठस्तत एनमधर्षयत्॥ 1-40-24(1806)
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः।
शृङ्गी नाम महाक्रोधो दुष्पसादोमहाव्रतः॥ 1-40-25(1807)
स देवं परमासीनं सर्वभूतहिते रतम्।
ब्रह्माणमुपतस्थे वै काले काले सुंसयतः॥ 1-40-26(1808)
सतेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्।
सख्योक्तः क्रीडमानेन स तत्र हसता किल॥ 1-40-27(1809)
संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः।
उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत्।
ऋषिपुत्रेण नर्मार्थे कृशेन द्विजसत्तम॥ 1-40-28(1810)
कृश उवाच। 1-40-29x(189)
तेजस्विनस्तव पिता तथैव च तपस्विनः।
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव॥ 1-40-29(1811)
व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद।
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु॥ 1-40-30(1812)
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः।
दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा॥ 1-40-31(1813)
पित्रा च तव तत्कर्म नानुरूपमिवात्मनः।
कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः॥ ॥ 1-40-32(1814)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चत्वारिंशोऽध्यायः॥ 40 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-40-3 कारु कामाद्युपद्रवमूलत्वाद्दारुणं शरीरं जरयति क्षपयतीति जरत्कारुरिति निर्वचनम्॥ 1-40-4 तथा तादृस्येव॥ 1-40-5 प्राहसत् अतिजीर्णयोरपि ब्रह्मचर्यविनाशः प्रसक्त इत्याश्चर्यं मत्वेति भावः। आमन्त्र्य हेउग्रश्रव इति संबोध्य। उपपन्नं युक्तं यत्तुल्यवयोरूपयोर्विवाह इति भावः॥ 1-40-15 तत् मृगस्यादर्शनं। पूर्वरूपं कारणम्॥ 1-40-17 प्रचारेषु गोष्ठेषु॥ 1-40-18 उपयुञ्जानं भक्षयन्तम्। पयः आपिबतां वत्सानामिति पूर्वेणान्वयः॥ 1-40-21 समासजत् आरोपयामास॥ चत्वारिंशोऽध्यायः॥ 40 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|